(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.171. अध्यायः 171
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण पाण्डवसेनायां रथातिरथसंख्यानम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

भीष्म उवाच। 5-171-0x(3878)(37746)
पाञ्चालराजस्य सुतो राजन्परपुरंजयः ।
शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥ 5-171-1(37747)
एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितम् ।
परं यशो विप्रथयंस्तव सेनासु भारत ॥ 5-171-2(37748)
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः ।
तेनासौ रथवंशेन महत्कर्म करिष्यति ॥ 5-171-3(37749)
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत ।
मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥ 5-171-4(37750)
एष योत्स्यति संग्रामे सूदयन्वै परान्रणे।
भगवानिव संक्रुद्धः पिनाकी युगसंक्षये ॥ 5-171-5(37751)
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः ।
बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥ 5-171-6(37752)
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप।
धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥ 5-171-7(37753)
शिशुपालसुतो वीरश्चेदिराजो महारथः।
धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह ॥ 5-171-8(37754)
एष चेदिपतिः शूरः सह पुत्रेण भारत ।
महारथानां सुकरं महत्कर्म करिष्यति ॥ 5-171-9(37755)
क्षत्रधर्मरतो मह्यं मतः परपुरंजयः ।
क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ॥ 5-171-10(37756)
जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ।
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ॥ 5-171-11(37757)
योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ।
अजो भोजश्च विक्रान्तौ पाण्डवार्थे महारथौ ॥ 5-171-12(37758)
योत्स्येते बलिनौ शूरौ परं शक्त्या यतिष्यतः।
शीघ्रास्त्राश्चित्रयोद्धारः कृतिनो दृढविक्रमाः ॥ 5-171-13(37759)
केकयाः पञ्च राजेन्द्र भ्रातरो दृढविक्रमाः ।
सर्वे चैव रथोदाराः सर्वे लोहितकध्वजाः ॥ 5-171-14(37760)
काशिकः सुकुमारश्च नीलो यश्चापरो नृप ।
सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥ 5-171-15(37761)
सर्व एव रथोदाराः सर्वे चाहवलक्षणाः ।
सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥ 5-171-16(37762)
वार्धक्षेमिर्महाराज मतो मम महारथः ।
चित्रायुघश्च नृपतिर्मतो मे रथसत्तमः ॥ 5-171-17(37763)
स हि सङ्ग्रामशोभी च भक्तश्चापि किरीटिनः ।
चेकितानः सत्यधृतिः पाण्डवानां महारथौ ।
द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥ 5-171-18(37764)
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत।
मतौ मम रथोदारौ पाण्डवानां न संशयः ॥ 5-171-19(37765)
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः ।
यः समो वासुदेवेन भीमसेनेन वा विभो ॥ 5-171-20(37766)
स योत्स्यति हि विक्रम्य समरे तव सैनिकैः ।
मां च द्रोणं कृपं चैव यथा संमन्यते भवान् ॥ 5-171-21(37767)
तथा स समरश्लाघी मन्तव्यो रथसत्तमः ।
काश्यः परमशीघ्रास्त्रः श्लाघनीयो नरोत्तमः ॥ 5-171-22(37768)
रथ एकगुणो मह्यं ज्ञेयः परपुरंजयः ।
अयं च युधि विक्रान्तो मन्तव्योष्टगुणो रथः ॥ 5-171-23(37769)
सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ।
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ॥ 5-171-24(37770)
पाण्डवानां यशस्कामः परं कर्म करिष्यति ।
अनुरक्ताश्च शूरश्च रथोऽयमपरो महान् ॥ 5-171-25(37771)
पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः ।
दृढधन्वा महेष्वासः पाण्डवानां महारथः ॥ 5-171-26(37772)
श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ।
उभावेतावतिरथौ मतौ परपुरंजयौ ॥ ॥ 5-171-27(37773)

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-171-2 नाशयन् पूर्वसंस्थितं प्राचीनं स्त्रीत्वेनावस्थानं अदर्शयन्। पौरुषं दर्शयन्नित्यर्थः ॥ 5-171-13 शक्त्या क्षयिष्यत इति डo झo पाठः। क्षयिष्यतः सामर्थ्य दर्शयिष्यतः। ऐश्वर्यार्थोयं क्षयतिः ॥ 5-171-16 विदुषः विद्वांसः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.